|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.116. अध्यायः 116
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति गवां तपःप्रसन्नाद्ब्रह्मणः शृङ्गप्राप्त्यादिकथनम्॥ 1 ॥ तथा गोदानप्राप्यपुण्यलोकवर्णनम्॥ 2 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत्।
पावनं परमं चैव तन्मे ब्रूहि पितामह॥ 13-116-1(85978)
भीष्म उवाच। 13-116-2x(7125)
गावो महार्थाः पुण्याश्च तारयन्ति च मानवान्।
धारयन्ति प्रजाश्चेमा हविषा पयसा तथा॥ 13-116-2(85979)
न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम।
एताः पुण्याः पवित्राश्च त्रिषु लोकेषु सत्तमाः॥ 13-116-3(85980)
देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै।
दत्त्वा चैतास्तारयते यान्ति स्वर्गं मनीषिणः॥ 13-116-4(85981)
मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा।
गा वै ददन्तः सततं सहस्रशतसम्मिताः॥ 13-116-5(85982)
गताः परमकं स्थानं देवैरपि सुदुर्लभम्।
अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ॥ 13-116-6(85983)
ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः।
अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः॥ 13-116-7(85984)
पितरं परिपप्रच्छ दृष्टलोकपरावरम्।
को यज्ञः सर्वयज्ञानां वरिष्ठोऽभ्युपलक्ष्यते॥ 13-116-8(85985)
किञ्च कृत्वा परं स्थानं प्राप्नुवन्ति मनीषिणः।
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो॥ 13-116-9(85986)
किञ्च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः।
दानानामुत्तमं किञ्च किञ्च सत्रमितः परम्।
पवित्राणां पवित्रं च यत्तद्ब्रूहि महामुने॥ 13-116-10(85987)
एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित्।
पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ॥ 13-116-11(85988)
गावः प्रतिष्ठा भूतानां तथा गावः परायणम्।
गावः पुण्याः पवित्राश्च गोधनं पावनं तथा॥ 13-116-12(85989)
पूर्वमासन्नंशृङ्गा वै गाव इत्यनुशश्रुम।
शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम्॥ 13-116-13(85990)
ततो ब्रह्मा तु गाः सत्रमुपविष्टाः समीक्ष्य ह।
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः॥ 13-116-14(85991)
तासां शृङ्गाण्यजायन्त तस्या यादृङ्भनोगतम्।
नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक॥ 13-116-15(85992)
ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः।
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः॥ 13-116-16(85993)
गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते।
ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः॥ 13-116-17(85994)
ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते।
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ॥ 13-116-18(85995)
यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः।
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम॥ 13-116-19(85996)
सर्वा मणिभयी भूमिः सर्वकाञ्चनवालुकाः।
सर्वर्तुसुखसंस्पर्शा निष्पङ्का निरजाः शुभाः॥ 13-116-20(85997)
रक्तोत्पलवनैश्चैव मणिखण्डैर्हिरण्मयैः।
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः॥ 13-116-21(85998)
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः।
नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः॥ 13-116-22(85999)
करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः।
सन्तानकवनैः फुल्लैर्वृक्षेश्च समलङ्कृताः॥ 13-116-23(86000)
निर्मिलाभिश्च मुक्ताभिर्मणिभिश्च महाप्रभैः।
उद्भूतपुलिनास्तत्र जातरूपैश्चि निम्नगाः॥ 13-116-24(86001)
सर्वरत्नमयैश्चित्रैरवगाढा द्रुमोत्तमैः।
जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः॥ 13-116-25(86002)
सौवर्णि गिरयस्तत्र मणिरत्नशिलोच्चयाः।
सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः॥ 13-116-26(86003)
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः।
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ॥ 13-116-27(86004)
रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर।
सर्वकामसमृद्धार्था निःशोका गतमन्यवः॥ 13-116-28(86005)
विमानेषु विचित्रेषु रमणीयेषु भारत।
मोदन्ते पुण्यकर्माणो विरहन्तो यशस्विनः॥ 13-116-29(86006)
उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः।
एतान्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर॥ 13-116-30(86007)
यासामधिपतिः पूषा मारुतो बलवान्बले।
ऐश्वर्ये वरुणो राजा ता मां पान्तु युगन्धराः॥ 13-116-31(86008)
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः।
प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः॥ 13-116-32(86009)
गाश्च शुश्रूषते यश्च समन्वेति च सर्वशः।
तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान्॥ 13-116-33(86010)
द्रुह्येन मनसा वाऽपि गोषु ता हि सुखप्रदाः।
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत्॥ 13-116-34(86011)
दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाऽश्नुते।
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः॥ 13-116-35(86012)
गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं विबेत्।
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्र्यहम्॥ 13-116-36(86013)
योन देवाः पवित्रेणि भुञ्जते लोकमुत्तमम्।
यत्पवित्रं पवित्राणां तद्धृतं शिरसा वहेत्॥ 13-116-37(86014)
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्।
घृतं प्राशेद्धृतं दद्याद्गवां पुष्टिं तथाऽश्नुते॥ 13-116-38(86015)
निर्हृतैश्च यवैर्गोभिर्मासं प्रश्रितयावकः।
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यते॥ 13-116-39(86016)
पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम्॥
ते देवत्वमपि प्राप्ताः संसिद्धाश्च महाबलाः॥ 13-116-40(86017)
गावः पवित्राः पुण्याश्च पावनं परमं महत्।
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते॥ 13-116-41(86018)
गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत्।
पूताभिरद्भिराचम्यि शुचिर्भवति निर्मलः॥ 13-116-42(86019)
अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि।
विद्यावेदप्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः॥ 13-116-43(86020)
अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसम्मिताम्।
त्रिरात्रोपोषितो भूत्वा गोमतीं लभते वरम्॥ 13-116-44(86021)
पुत्रिकामश्च लभते पुत्रं धनमथापि वा॥
पतिकामा च भर्तारं सर्वकामांश्च मानवः॥ 13-116-45(86022)
गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः।
एवमेतां महाभागा यज्ञियाः सर्वकामदाः।
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम्॥ 13-116-46(86023)
इत्युक्तः स महातेजाः शुकः पित्रा महात्मना।
पूजयामास तां नित्यं तस्मात्त्वमपि पूजय॥ ॥ 13-116-47(86024)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षोडशाधिकशततमोऽध्यायः॥ 116 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-116-13 अशृङ्का इत्यखुरा इत्यस्याप्युपलक्षणम्॥ 7-116-14 गाः प्रायमुपविष्टा इति झ.पाठः॥ 7-116-27 गनाः वृक्षाः। पत्ररथाः पक्षिणः॥ 7-116-39 निर्हृतैः गोमयनिर्गतैः॥ 7-116-44 गोमतीं गोमत्या ऋचा प्रकाशितमर्थं वरं लभते॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|